चन्‍द्रे जलम् अस्ति इति वाराहमिहिरेण षष्‍ठसताब्‍द्याम् एव सम्‍पादितम् आसीत्।।

गुरुवार, 6 मई 2010



किंचित कालपूर्वम् एव भारतस्‍य चन्‍द्रयानेन् प्रमाणितं यत् चन्‍द्रे जलम् अस्ति एव। इत: पूर्वं नासावैज्ञानिका: एतस्‍य अन्‍वेषणं बहु वारं कृतवन्‍त: किन्‍तु चन्‍द्रे जलम् अस्ति इत्‍येतस्मिन् विषये ते किमपि वक्‍तुं न शक्‍तवन्‍त: । अस्‍य विषयस्‍य अन्‍वेषणं कर्तुं भारतदेश: चन्‍द्रयानम् इति कश्‍चन् गगननौका प्रेषितवान् तथा सप्रमाणेन् चन्‍द्रे जलम् अस्ति इति रहस्‍योद्घाटनं कृतवान् ।

य: विषय: अद्य नूतन वैज्ञानिकै: उद्धृत: प्रमाणित: च स: विषय: अस्‍माकं भारतस्‍य एव खगोलविद: सहस्राधिकेभ्‍य: वर्षेभ्‍य: (6तमे शताब्‍दे:) पूर्वम् एव स्‍वग्रन्थे लिखितवान् आसीत्।

तदा गगनस्‍य अटनं कर्तुं गगननौका: न आसन्, नैव कश्चित् अन्‍यं साधनम् एव आसीत् अस्‍य विषयस्‍य ज्ञानं कर्तुम्। किन्‍तु तदा यत् वचनं प्रमाणितं तद् वचनम् अद्य आगत्‍य सर्वै: स्‍वीकृतम्।

प्रशिद्ध: भारतीय: खगोलविद: वाराहमिहिर: चन्द्रे प्रकाशस्‍योत्‍पत्ति: कथम् इति कथयन् वदति-

''सलिलमये शशिनि खेर्दीधितयो मूर्च्छिता तमो नैश्‍यम्।

क्षपयन्ति दर्पणोदरनिहिता इव मन्दिरस्‍यान्‍त:।।'' इति- (बृहत्‍संहिता-4)

चन्‍द्रे यत् जलमयत्‍वं दृश्‍यते तस्‍मात् एव सूर्यकिरणस्‍य प्रतिफलनं कौमुद्या: च उत्‍पत्ति: भवति इति तस्‍य कथनस्‍य सार:।।

1030तमे वर्षे अल्‍बरूनि: नाम खगोलशास्‍त्रज्ञ: भारतम् आगत्‍य अत्रत्‍यान् विचारान् ज्ञात्‍वा स्‍वीये ''ऐहिक् म लिल् हिन्‍दु'' इत्‍येतस्मिन् महाग्रन्‍थे वराहमिहिरादिभि: उक्‍तं सर्वं संगृहीतवान् अस्ति।

तत्र स: लिखति- जलांशकारणत: एव चन्‍द्रे शीतलता परिदृश्‍यते, सूर्यकिरणा: चन्‍द्रतले प्रतिफलनं प्राप्‍य प्रकाशन्‍ते इति वराहमिहिर: बृहत्‍संहितायाम् उक्‍तवान् अस्ति इति। (अल्‍बेरूनीस् इण्डिया, अनुवाद:- एड्कर्ससच्यौ पृष्‍ठसंख्‍या -370)

प्राचीनकाले वैज्ञानिकसाधनानि, अन्‍यग्रहं प्रति प्रयाणं वा असम्‍भवम् आसीत् तथापि पूर्वजै: ऋषिभि: सूर्यचन्‍द्रादीनां गतिस्‍वरूपादय: निर्दुष्‍टतया उक्‍ता: सन्ति। तै: उक्‍तेन क्रमेण या गणना क्रियते तदनुगुणम् एव सूर्य-चन्‍द्रादीनाम् उदय-अस्‍तादय: अद्यापि भवन्ति, इत्‍यत: स्‍पष्‍टं यत् तेषां कथने वैज्ञानिकता अस्ति एव इति।


एवं विधा बहूनां सिद्धान्तानां प्रतिपादनं अस्‍माकं मनीषिभि: पूर्वं एव कृतं आसीत्।

साम्‍प्रतं ये वदन्ति यत् भारते किमपि नास्ति अथवा भारतदेश: अन्‍यदेशानाम् अनुशरणं करोति तेषां मुखपिधानं कर्तुं अस्‍माभि: अस्‍माकं ग्रन्‍थानां गहनाध्‍ययनम् आवश्‍यकम् एव इति।

अत: एतेषां तथ्‍यानां संकलनं सर्वै: अपि करणीयम् ।।

अस्‍माकं संस्‍कृति: अस्‍माभि: एव रक्षणीया।।


।।जयतु भारतम्, जयतु संस्‍कृतम्।।

सम्‍भाषण सन्‍देश पुस्‍तकात् साभार गृहीत:

भवदीय:- आनन्‍द:


0 टिप्पणियाँ:

प्रकाशित सभी सामग्री के विषय में किसी भी कार्यवाही हेतु संचालक का सीधा उत्तरदायित्त्व नही है अपितु लेखक उत्तरदायी है। आलेख की विषयवस्तु से संचालक की सहमति/सम्मति अनिवार्य नहीं है। कोई भी अश्लील, अनैतिक, असामाजिक,राष्ट्रविरोधी तथा असंवैधानिक सामग्री यदि प्रकाशित करी जाती है तो वह प्रकाशन के 24 घंटे के भीतर हटा दी जाएगी व लेखक सदस्यता समाप्त कर दी जाएगी। यदि आगंतुक कोई आपत्तिजनक सामग्री पाते हैं तो तत्काल संचालक को सूचित करें - rajneesh.newmedia@gmail.com अथवा आप हमें ऊपर दिए गये ब्लॉग के पते bharhaas.bhadas@blogger.com पर भी ई-मेल कर सकते हैं।
eXTReMe Tracker

  © भड़ास भड़ासीजन के द्वारा जय जय भड़ास२००८

Back to TOP