संस्कृत प्रशिक्षणम

मंगलवार, 8 मार्च 2011

_2011-02-26_17-22-58 यथा अहं श्‍व: सूचितवान् आसम य‍त् संस्‍कृतस्‍य नूतनी प्रशिक्षणकक्ष्या आरभ्‍यमाणा अस्ति । एतस्‍या: कक्ष्‍याया: विषये भवन्‍त: सूचनीया: सन्ति यत् एषा कक्ष्‍या जालजगति आयोजितासु सर्वासु संस्‍कृतप्रशिक्षणकक्ष्‍यासु सरलतमा अथ च उत्‍तमा भविष्‍यति । अस्‍यां कक्ष्‍यायां भवन्‍त: प्रारम्भिकस्‍तरीयप्राठ्यकमं पठिष्‍यन्ति अथ च शनै:-शनै: मध्‍यमस्‍तरीय: पुनश्‍च उच्‍चस्‍तरीय: अपि पाठ्क्रम: पठिष्‍यन्ति ।।

प्रत्‍येकस्‍य पाठ्यक्रमस्‍य अनन्‍तरम् अहं भवतां सर्वेषां निर्देशम् अपि प्राप्‍तुं इच्‍छामि यत् पाठ्यक्रमे भवन्‍त: किं परिवर्तनम् इच्‍छन्ति, कुत्र असौविध्‍यम् अस्ति, किं अवगमने न आगतम्, किं इतोपि योजनीयम्, किं अपसारणीयम्, कुत्र काठिन्‍यम् इत्यादि । भवतां निर्देश: पाठ्यक्रमस्‍य गुणवत्‍तावर्धने सहाय्यं भविष्‍यति ।

मम पूर्वनिवेदनम् अपि अस्ति अस्‍माकं संस्‍कृतविदुषां प्रति यत् भवन्‍त: अपि संस्‍कृतप्रशिक्षणे सहयतां कुर्यु: । ये संस्‍कृतप्रशिक्षणे सहाय्यं भवितुम् इच्‍छन्ति ते कृपया अस्‍य संकलकस्‍य लेखकत्‍वं स्‍वीकुर्वन्‍तु । लेखकत्‍वं स्‍वीकर्तुं अधिकं किमपि न करणीयमस्ति केवलं अस्‍य पृष्‍ठस्‍य अध: ANAND PANDEY- SANSKRIT JAGAT3 चित्रस्‍य उपरि नोदनं करणीयमस्ति । अस्‍मासु ये अपि संस्‍कृतं लेखितुं इच्‍छन्ति ते अपि लेखकत्‍वं स्‍वीकुर्यु: ।

सम्‍प्रति आशास्महे यत् भवन्‍त: संस्‍कृतप्रशिक्षणे स्‍व-सहभागं दास्‍यन्ति ।।

जयतु संस्‍कृतम्

भवदीय: - आनन्‍द:

http://www.sanskritjagat.co.in/

0 टिप्पणियाँ:

प्रकाशित सभी सामग्री के विषय में किसी भी कार्यवाही हेतु संचालक का सीधा उत्तरदायित्त्व नही है अपितु लेखक उत्तरदायी है। आलेख की विषयवस्तु से संचालक की सहमति/सम्मति अनिवार्य नहीं है। कोई भी अश्लील, अनैतिक, असामाजिक,राष्ट्रविरोधी तथा असंवैधानिक सामग्री यदि प्रकाशित करी जाती है तो वह प्रकाशन के 24 घंटे के भीतर हटा दी जाएगी व लेखक सदस्यता समाप्त कर दी जाएगी। यदि आगंतुक कोई आपत्तिजनक सामग्री पाते हैं तो तत्काल संचालक को सूचित करें - rajneesh.newmedia@gmail.com अथवा आप हमें ऊपर दिए गये ब्लॉग के पते bharhaas.bhadas@blogger.com पर भी ई-मेल कर सकते हैं।
eXTReMe Tracker

  © भड़ास भड़ासीजन के द्वारा जय जय भड़ास२००८

Back to TOP